नृ॒चक्षा॒ रक्ष॒: परि॑ पश्य वि॒क्षु तस्य॒ त्रीणि॒ प्रति॑ शृणी॒ह्यग्रा॑ । तस्या॑ग्ने पृ॒ष्टीर्हर॑सा शृणीहि त्रे॒धा मूलं॑ यातु॒धान॑स्य वृश्च ॥
nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi prati śṛṇīhy agrā | tasyāgne pṛṣṭīr harasā śṛṇīhi tredhā mūlaṁ yātudhānasya vṛśca ||
नृ॒ऽचक्षाः॑ । रक्षः॑ । परि॑ । प॒श्य॒ । वि॒क्षु । तस्य॑ । त्रीणि॑ । प्रति॑ । शृ॒णी॒हि॒ । अग्रा॑ । तस्य॑ । अ॒ग्ने॒ । पृ॒ष्टीः । हर॑सा । शृ॒णी॒हि॒ । त्रे॒धा । मूल॑म् । या॒तु॒ऽधान॑स्य । वृ॒श्च॒ ॥ १०.८७.१०